The Purpose of life is to go toward the freedom and drop all the fears of life. - Upanishdas
About Me
PMLOGY

Bhagwat Geeta – Chapter 17 : Sanskrit Text

अथ सप्तदशोऽध्यायः |   श्रद्धात्रयविभागयोगः

अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ BG : 17-1 ॥
श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ BG : 17-2 ॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ BG : 17-3 ॥
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ BG : 17-4 ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥ BG : 17-5 ॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |
मां चैवान्तःशरीरस्थं तान्विद्‌ध्यासुरनिश्चयान्‌ ॥ BG : 17-6 ॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ BG : 17-7 ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ BG : 17-8 ॥
कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ BG : 17-9 ॥
यातयामं गतरसं पूति पर्युषितं च यत्‌ |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ ॥ BG : 17-10 ॥
अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ BG : 17-11 ॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्‌ |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्‌ ॥ BG : 17-12 ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्‌ |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ BG : 17-13 ॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्‌ |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ BG : 17-14 ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌ |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ BG : 17-15 ॥
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ BG : 17-16 ॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ BG : 17-17 ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्‌ |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्‌ ॥ BG : 17-18 ॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्‌ ॥ BG : 17-19 ॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्‌ ॥ BG : 17-20 ॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्‌ ॥ BG : 17-21 ॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ॥ BG : 17-22 ॥
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ BG : 17-23 ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्‌ ॥ BG : 17-24 ॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ BG : 17-25 ॥
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ BG : 17-26 ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ BG : 17-27 ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌ |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ BG : 17-28 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः || 17||

Want to add something?

Loading Facebook Comments ...

Leave a Reply

Your email address will not be published. Required fields are marked *

 

Loading Disqus Comments ...
0 Shares
Share
Tweet
Share
+1
Pin