The Purpose of life is to go toward the freedom and drop all the fears of life. - Upanishdas
About Me
44% of pm use no software, even though PWC found that the use of commercially available PM software increases performance and satisfaction. Follow Tweet

Metrics: Leading Causes of Failed Agile Project Follow Tweet
PMLOGY

Bhagwat Geeta – Chapter 16 : Sanskrit Text

अथ षोडशोऽध्यायः |   दैवासुरसम्पद्विभागयोगः

श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्‌ ॥ BG : 16-1 ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्‌ |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌ ॥ BG : 16-2 ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ BG : 16-3 ॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्‌ ॥ BG : 16-4 ॥
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ BG : 16-5 ॥
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ BG : 16-6 ॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ BG : 16-7 ॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्‌ |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम्‌ ॥ BG : 16-8 ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ BG : 16-9 ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |
मोहाद्‌गृहीत्वासद्‌ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ BG : 16-10 ॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ॥ BG : 16-11 ॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्‌ ॥ BG : 16-12 ॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्‌ |
इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ ॥ BG : 16-13 ॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ BG : 16-14 ॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ BG : 16-15 ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ BG : 16-16 ॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्‌ ॥ BG : 16-17 ॥
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ BG : 16-18 ॥
तानहं द्विषतः क्रुरान्संसारेषु नराधमान्‌ |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ BG : 16-19 ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्‌ ॥ BG : 16-20 ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्‌ ॥ BG : 16-21 ॥
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्‌ ॥ BG : 16-22 ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्‌ ॥ BG : 16-23 ॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ BG : 16-24 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः || 16||

Want to add something?

Loading Facebook Comments ...

Leave a Reply

Your email address will not be published. Required fields are marked *

 

Loading Disqus Comments ...
0 Shares
Share
Tweet
Share
+1
Pin