The Purpose of life is to go toward the freedom and drop all the fears of life. - Upanishdas
About Me
44% of pm use no software, even though PWC found that the use of commercially available PM software increases performance and satisfaction. Follow Tweet

Metrics: Leading Causes of Failed Agile Project Follow Tweet
PMLOGY

Bhagwat Geeta – Chapter 13 : Sanskrit Text

अथ त्रयोदशोऽध्यायः |   क्षेत्रक्षेत्रज्ञविभागयोगः

अर्जुन उवाच |
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ BG : 13-1 ॥
श्रीभगवानुवाच |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ BG : 13-2 ॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ BG : 13-3 ॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्‌ |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ BG : 13-4 ॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्‌ |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ BG : 13-5 ॥
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ BG : 13-6 ॥
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्‌ ॥ BG : 13-7 ॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्‌ |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ BG : 13-8 ॥
इन्द्रियार्थेषु वैराग्यमनहंकार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्‌ ॥ BG : 13-9 ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ BG : 13-10 ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ BG : 13-11 ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्‌ |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ BG : 13-12 ॥
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ BG : 13-13 ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्‌ |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ BG : 13-14 ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्‌ |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ BG : 13-15 ॥
बहिरन्तश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्‌ ॥ BG : 13-16 ॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्‌ |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ BG : 13-17 ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्‌ ॥ BG : 13-18 ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ BG : 13-19 ॥
प्रकृतिं पुरुषं चैव विद्‌ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्‌ ॥ BG : 13-20 ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ BG : 13-21 ॥
पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान्‌ |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ BG : 13-22 ॥
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ BG : 13-23 ॥
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ BG : 13-24 ॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ BG : 13-25 ॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ BG : 13-26 ॥
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्‌ |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ BG : 13-27 ॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्‌ |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ BG : 13-28 ॥
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्‌ |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्‌ ॥ BG : 13-29 ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ BG : 13-30 ॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ BG : 13-31 ॥
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ BG : 13-32 ॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ BG : 13-33 ॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ BG : 13-34 ॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्‌ ॥ BG : 13-35 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः || 13||

Want to add something?

Loading Facebook Comments ...

Leave a Reply

Your email address will not be published. Required fields are marked *

 

Loading Disqus Comments ...
0 Shares
Share
Tweet
Share
+1
Pin