The Purpose of life is to go toward the freedom and drop all the fears of life. - Upanishdas
About Me
44% of pm use no software, even though PWC found that the use of commercially available PM software increases performance and satisfaction. Follow Tweet

Metrics: Leading Causes of Failed Agile Project Follow Tweet
PMLOGY

Bhagwat Geeta – Chapter 09 : Sanskrit Text

अथ नवमोऽध्यायः |   राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥ BG : 9-1 ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्‌ |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्‌ ॥ BG : 9-2 ॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ BG : 9-3 ॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ BG : 9-4 ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्‌ |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ BG : 9-5 ॥
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्‌ |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ BG : 9-6 ॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्‌ |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्‌ ॥ BG : 9-7 ॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्‌ ॥ BG : 9-8 ॥
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ BG : 9-9 ॥
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ BG : 9-10 ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्‌ |
परं भावमजानन्तो मम भूतमहेश्वरम्‌ ॥ BG : 9-11 ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ BG : 9-12 ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्‌ ॥ BG : 9-13 ॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ BG : 9-14 ॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्‌ ॥ BG : 9-15 ॥
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्‌ |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्‌ ॥ BG : 9-16 ॥
पिताहमस्य जगतो माता धाता पितामहः |
वेद्यं पवित्रमोंकार ऋक्साम
यजुरेव च ॥ BG : 9-17 ॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्‌ |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्‌ ॥ BG : 9-18 ॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ BG : 9-19 ॥
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्‌ ॥ BG : 9-20 ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ BG : 9-21 ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥ BG : 9-22 ॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्‌ ॥ BG : 9-23 ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ BG : 9-24 ॥
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्‌ ॥ BG : 9-25 ॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ BG : 9-26 ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ ॥ BG : 9-27 ॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ BG : 9-28 ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्‌ ॥ BG : 9-29 ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ BG : 9-30 ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ BG : 9-31 ॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्‌ ॥ BG : 9-32 ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्‌ ॥ BG : 9-33 ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ BG : 9-34 ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः || 9||

Want to add something?

Loading Facebook Comments ...

One thought on “Bhagwat Geeta – Chapter 09 : Sanskrit Text

  1. Pingback: Bhagwat Geeta - Sanskrit Text - PMLOGY

Leave a Reply

Your email address will not be published. Required fields are marked *

 

Loading Disqus Comments ...
0 Shares
Share
Tweet
Share
+1
Pin